अथ चतुर्थोऽध्यायः ।



सूर्यस्तुति

विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविहृतम् ॥


वातजूतो योऽभिरक्षतित्मनाप्रजाः पुपोष पुरुधा विराजति ॥ १॥


उदुत्त्यं जातवेदसं देवमुदवहन्ति हन्ति केतवो दृशे विश्वाय सूर्यम् ॥ २॥


येन पावकचक्षसा भुरण्यन्तं जनाँ त्वं वरुण पश्यसि ॥ ३॥


दैव्यावद्ध्वर्यू आगतं रथेन सूर्यत्वचा ॥


मद्धा यज्ञं समञ्जाथे ॥ तं प्रत्क्नथा अयं वेनश्चित्रं देवानाम् ॥ ४॥


तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ॥


प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनुयासु वर्धसे ॥ ५॥


अयं वेनश्चोदयत्पृश्निगर्भाज्ज्योतिर्जरायुः रजसो विमाने ।

इममपां सङ्गमे सूर्यस्य॒ शिशुं न विप्राः मतिभिः रिहन्ति ॥ ६॥


चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य॒ वरुणस्याग्नेः ॥


आप्राद्यावापृथिवी अन्तरिक्षं सूर्य॑ आत्मा जगतस्तस्थुषश्च ॥ ७॥


आन इडाभिः विदथे सुशस्ति विश्वानरः सविता देव एतु ॥


अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ ८॥


यदद्य कच्च वृत्रहन्नुदगा अभिसूर्य ॥ सर्वं तदिन्द्र ते वशे ॥ ९॥


तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥ १०॥


तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोः वितत सञ्जभार ॥


यदेदयुक्तहरितः सधस्थादाद्रात्रीवासस्तनुते सिमस्मै ॥ ११॥


तन्मित्रस्य वरुणस्याभिचक्षे सूर्योरूपं कृणुते द्योरुपस्थे ।

अनन्तमन्यद्रुशदस्य॒ पाजः कृष्णमन्यद्धरितः सम्भरन्ति ॥ १२॥


बण्महानसि सूर्य बडादित्य महानसि ॥


महस्ते सतो महिमा पनस्यतेऽद्धा देव महानसि ॥ १३॥


बट्सूर्य्य श्रवसा महानसि सत्रादेव महानसि ।

मन्हा देवानामसुर्यः पुरोहितो विभुज्योतिरदाभ्यम् ॥ १४॥


श्रायन्त इव॒ सूर्य विश्वेदिन्द्रस्य भक्षत ॥


वसूनिजाते जनमाने ओजसा प्रतिभागं न दीधिम ॥ १५॥


अद्य देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात्

तन्नो मित्रो वरुणो मां महन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १६॥


आकृष्णेन रजसाऽऽवर्तमानो निवेशयन्नमृतं मर्त्यञ्च ॥


हिरण्ययेन सविता रथेन देव आयाति भुवनानि पश्यन् ॥ १७॥


इति रुद्रे चतुर्थोऽध्यायः ॥ ४