अथ तृतीयोऽध्यायः ।



रुद्रस्तुति

आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ॥


सङ्क्रन्दनोऽ निमिष एकवीरः शतसेना अजयत्साकमिन्द्रः ॥ १॥


सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।

तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ २॥


स इषुहस्तैः सनिषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रोगणेन ॥


संसृष्टजित्सौमपा बाहुशर्द्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥ ३॥


बृहस्पते॒ परिदीया रथेन रक्षोहाऽमित्रान् अपबाधमानः ॥


प्रभञ्जन्त्सेनाः प्रमृणो युधाजयन्नस्माकमेध्यविता रथानाम् ॥ ४॥


बलविज्ञायस्स्थविर प्रवीरः सहस्वान्वाजी सहमान उग्रः ॥


अभिवीरोऽभिसत्त्वा सहोजा जैत्रमिन्द्ररथमात्तिष्ठ गोवित् ॥ ५॥


गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥


इमं सजाता अनुवीरयध्वमिन्द्रं सखायोऽनुसंरभध्वम् ॥ ६॥


अभिगोत्राणि सहसाऽभिगाहमानोऽदयोवीरः शतमन्युरिन्द्रः ।

दुश्च्यवनः पृतनाषाडयुध्योऽस्माकं सेनाः प्रावतु युत्सु ॥ ७॥


इन्द्र आसां नेता बृहस्पतिर्दक्षिणायज्ञ पुर एतु सोमः ॥


देवसेनानाममिभञ्जतीनां मरुतो यन्त्वग्रम् ॥ ८॥


इन्द्रस्य वृष्णो वरुणस्य॒ राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ॥


महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ ९॥


उद्धर्षय मघवन्नायुधान्यत्सत्त्वनां मामकानां मनांसि ।

उद्र्वृत्रहन् वाजिनां वाजिनान्युद्रथानां जयतामुद्यन्तु घोषाः ॥ १०॥


अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ताः जयन्तु ॥


अस्माकं वीरा उत्तरे भवन्त्व॒स्माँ उ देवा अवताहवेषु ॥ ११॥


अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वपरेहि ॥


अभिप्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ १२॥


अवसृष्टा परापतशरव्ये ब्रह्मसंशिते ।

गच्छामित्रान् प्रपद्यस्व मामीषां कञ्चनोच्छिषः ॥ १३॥


प्रेत जयत नर इन्द्रो वः शर्म यच्छन्तु ॥


उग्रा वः सन्तु बाहवोऽनाधृष्याः व यथा असथ ॥ १४॥


असौ या सेना मरुतः परेषाम्मभ्यैति न ओजसा स्पर्धमाना ॥


तां गूहत तमसाऽपव्रतेन यथाऽमी अन्योऽन्यं न जानन् ॥ १५॥


यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।

तन्न इन्द्रो बृहस्प्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ १६॥


मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजाऽमृतेनानुवस्ताम् ॥


उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वा देवा अनुमदन्तु ॥ १७॥


इति रुद्रे तृतीयोऽध्यायः ॥ ३