अथ प्रथमोऽध्यायः


शुभ सङ्कल्पम् प्रार्थना मन्त्राः

हरिः गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा

निधीपतिं हवामहे वसो मम

आऽहमजानिगर्भधमात्त्वमजाऽसि गर्भधम् १॥


गायत्रीत्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्यासह


बृहत्युष्णिहाककुप्सूचीभिः शम्यन्तु त्वा २॥


द्विपदायाश्चतुषपदास्त्रिपदायाश्चषट्पदाः

विच्छन्दा याश्च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ३॥


सहस्तोमाः सहछन्दस आवृतः सहप्रमाः ऋषयः सप्तदैव्याः


पूर्वेषां पन्थामनुदृश्य धीरा अन्यालेभिरे रथ्यो रश्मीन् ४॥


यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति


दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ५॥


येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः


यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ६॥


यत्प्रज्ञानमुतचेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु


यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ७॥


येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम्


येन यज्ञः स्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ८॥


यस्मिन् ऋचः सामयजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः


यस्मिन् चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ९॥


सुषारथिरश्वानिव यन्मनुष्प्यान्नेनीयतेऽभीशुभिरार्वाजिनऽइव


हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु १०॥


इति रुद्रे प्रथमोऽध्यायः