अथ प्रथमोऽध्यायः ।


शुभ सङ्कल्पम् ॥ प्रार्थना मन्त्राः

हरिः ॐ गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा

निधीपतिं हवामहे वसो मम ।

आऽहमजानिगर्भधमात्त्वमजाऽसि गर्भधम् ॥ १॥


गायत्रीत्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्यासह ॥


बृहत्युष्णिहाककुप्सूचीभिः शम्यन्तु त्वा ॥ २॥


द्विपदायाश्चतुषपदास्त्रिपदायाश्चषट्पदाः ।

विच्छन्दा याश्च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥ ३॥


सहस्तोमाः सहछन्दस आवृतः सहप्रमाः ऋषयः सप्तदैव्याः ॥


पूर्वेषां पन्थामनुदृश्य धीरा अन्यालेभिरे रथ्यो न रश्मीन् ॥ ४॥


यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ॥


दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५॥


येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ॥


यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६॥


यत्प्रज्ञानमुतचेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ॥


यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ७॥


येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ॥


येन यज्ञः स्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ८॥


यस्मिन् ऋचः सामयजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः ॥


यस्मिन् चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ९॥


सुषारथिरश्वानिव यन्मनुष्प्यान्नेनीयतेऽभीशुभिरार्वाजिनऽइव ॥


हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १०॥


इति रुद्रे प्रथमोऽध्यायः ॥ १