अथ पञ्चमोऽध्यायः ॥



नमकं

हरिः ॐ नमस्ते रुद्र मन्यवे उत ते इषवे नमः । बाहुभ्यामुत ते नमः ॥ १॥


या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।

तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ २॥


यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्रतां कुरु मा हिंसीः पुरुषं जगत् ॥ ३॥


शिवेन वचसा त्वा गिरिशच्छा वदामसि ।

यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ ४॥


अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।

अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योःधराचीः परासुव ॥ ५॥


असौ यस्ताम्रोऽरुण उत बभ्रुः सुमङ्गलः ।

ये चैनं रुद्रा अभितो दिक्षु श्रिताः सहस्रशः एषां हेड अवेमहे ॥ ६॥


असौ योऽवसर्पति नीलग्रीवो विलोहितः ।

उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥ ७॥


नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।

अथो येऽस्य सत्त्वानोऽहं तेभ्योऽकरं नमः ॥ ८॥


प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् ।

याश्च ते हस्ते इषवः परा ता भगवो वप ॥ ९॥


विज्यं धनुः कपर्दिनो विशल्यो बाणवानुत ।

अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ १०॥


या ते हेतिर्मीढुष्टम हस्तै बभूव ते धनु ।

तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥ ११॥


परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ।

अथो य ईषुधिस्तवारेऽस्मन्निधेहि तम् ॥ १२॥


अवतत्त्य धनुस्त्वं सहस्राक्ष शतेषुधे ।

निशीर्य शल्यानां मुखाः शिवो नः सुमना भव ॥ १३॥


नमस्ते आयुधायानातताय धृष्णवे ।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १४॥


मा नो महान्तमुत मा नोऽर्भकं मा न उक्षमुत मा न उक्षितम् ।

मा नो वधीः पितरं मा उत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १५॥


मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नोऽश्वेषु रीरिषः ।

मा नो वीरान् रुद्र भामिनो वधीर्हविष्म॑न्तः सदमित्त्वा हवामहे ॥ १६॥


नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो

हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते

पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो ॥ १७॥


नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो

नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमो नमो रोहिताय ॥ १८॥


नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां

पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो उच्चैर्घोषायाक्रन्दयते

पत्तीनां पतये नमो नमः कृत्स्नायतया ॥ १९॥


नमः कृत्स्नायतया धावते तसत्त्वनां पतये नमो नमः सहमानाय निव्याधिने

आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे

परिचरायारण्यानां पतये नमो नमो वञ्चते ॥ २०॥


नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां

पतये नमो नमः सृकायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो

नक्तञ्चरद्भ्यो विकृन्तानां पतये नमः ॥ २१॥


नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो

धन्वाविभ्यश्च वो नमो नम

आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम

आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो नमो विसृजद्भ्यःः ॥ २२॥


नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमः स्वपद्भ्यो

 जाग्रद्भ्यश्च वो नमो नमः

शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः ॥ २३॥


नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो नम

व्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो नमो गणेभ्यः ॥ २४॥


नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो

नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो

नमः सेनाभ्यः ॥ २५॥


नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमः क्षत्तृभ्यः

सङ्ग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः ॥ २६॥


नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो

नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमो

नमः श्वभ्यः ॥ २७॥


नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च

पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने ॥ २८॥


नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो

गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय ॥ २९॥


नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च

सवृधे च नमोऽग्र्याय च प्रथमाय च नम आशवे ॥ ३०॥


नम आशवे चाजिराय च नमः शीघ्राय च शीभ्याय च नम

ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥ ३१॥


नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च

नमो जघन्याय च बुध्न्याय च नमः सोभ्याय ॥ ३२॥


नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय

चावसान्याय च नम उर्वर्याय च खल्याय च नमो वन्याय ॥ ३३॥


नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम

आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च नमो बिल्मिने ॥ ३४॥


नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय॑ च

श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे ॥ ३५॥


नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे

चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥ ३६॥


नम स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च

सरस्याय च नमो नादेयाय च वैशन्ताय च नमः कूप्याय ॥ ३७॥


नमो कूप्याय चावट्याय च नमो वीध्राय चातप्याय च नमो मेध्याय च

विद्युत्याय च नमो वार्याय चावर्षाय च नमो वात्याय ॥ ३८॥


नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च

रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गवे ॥ ३९॥


नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवुधाय च

नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ॥ ४०॥


नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च

नमः शिवाय च शिवतराय च ॥ ४१॥


नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च

नमुह शव्याय च फेन्याय च नमः सिकत्याय ॥ ४२॥


नमः सिकत्याय च प्रवाह्याय च नमः किंशिलाय च क्षयणाय च

नमः कपर्दिने च पुलस्तये च नम इरिण्याय च प्रपथ्याय च नमो व्रज्याय ॥ ४३॥


नमो व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदयाय च

निवेष्प्याय च नमः काट्याय च गह्वरेष्ठाय च नमः शुष्क्याय ॥ ४४॥


नमः शुष्क्याय च हरित्याय च नमः पांसव्याय च रजस्याय च नमो लोप्या॑य चोलप्याय च

नम ऊर्व्याय च सूर्व्याय च नमः पर्णाय ॥ ४५॥


नमः पर्णाय च पर्णशदाय च नम उद्गरमाणाय चाभिघ्नते च नम आखिदते च

प्रखिदते च नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो नमो वः किरिकेभ्यो

देवानां हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः ॥ ४६॥


द्रापेऽअन्धसस्पते दरिद्र नीललोहित । आसां प्रजानामेषां

पशूनां मा भेर्मा रोङ्मा च नः किञ्चनाममत् ॥ ४७॥


इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।

यथा शमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामेऽअस्मिन्ननातुरम् ॥ ४८॥


या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।

शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥ ४९॥


परि नो रुद्रस्य हेति वृणक्तु त्वेषस्य दुर्मतिरघायोः ।

अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ॥ ५०॥


मीढुष्टम शिव॑तम शिवो नः सुमना भव ।

परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ ५१॥


विकिरिद्र विलोहित नमस्तेऽअस्तु भगवः ।

यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः ॥ ५२॥


सहस्राणि सहस्रशो बाह्वोस्तव हेतयः ।

तासामीशानो भगवः पराचीना मुखाः कृधि ॥ ५३॥


असङ्ख्याता सहस्राणि ये रुद्रा अधिभूम्याम् ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५४॥


अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि ।

तेषां सहस्त्रयोजने धन्वान्यवतन्मसि ॥ ५५॥


नीलग्रीवाः शितिकण्ठाः दिवां रुद्राः उपश्रिताः ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५६॥


नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५७॥


ये वृक्षेषु शष्पिञ्जराः नीलग्रीवाः विलोहिताः ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५८॥


ये भूतानामधिपतयो विशिखासः कपर्दिन ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५९॥


ये पथां पथिरक्षयः ऐलबृदाः आयुर्युधः ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६०॥


ये तीर्थानि प्रचरन्ति सृकाहस्ताः निषङ्गिणः ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६१॥


येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६२॥


य एतावन्तश्च भूयांसश्च दिशो रुद्राः वितस्थिरे ।

तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६३॥


नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः ।

तेभ्यो दश प्राचीर्दर्श दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः ।

तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि

तमेषां जम्भे दध्मः ॥ ६४॥


नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातः इषवः ।

तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः ।

तेभ्यो नमोऽस्तु ते नऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि

तमेषां जम्भे दध्मः ॥ ६५॥


नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः ।

तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोचीर्दशोर्ध्वाः ।

तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि

तमेषां जम्भे दध्मः ॥ ६६॥


इति रुद्रे पञ्चमोऽध्यायः ॥ ५