श्री गणेश अथर्वशीर्ष  

  श्री गणेशाय नमः ।
  ॐ नमस्ते गणपतये ।
  त्वमेव प्रत्यक्षन् तत्त्वमसि ।
  त्वमेव केवलङ् कर्ताऽसि ।
  त्वमेव केवलन् धर्ताऽसि ।
  त्वमेव केवलम् हर्ताऽसि ।
  त्वमेव सर्वङ् खल्विदम् ब्रह्मासि ।
  त्वं साक्षादात्माऽसि नित्यम् ।।

  ऋतं वच्मि । सत्यं वच्मि ।।

  अव त्वम् माम् । अव वक्तारम् ।
  अव श्रोतारम् । अव दातारम् ।
  अव धातारम् । अवानूचानमव शिष्यम् ।
  अव पश्चात्तात् । अव पुरस्तात् ।
  अवोत्तरात्तात् । अव दक्षिणात्तात् ।
  अव चोध्र्वात्तात् । अवाधरात्तात् ।
  सर्वतो माम् पाहि पाहि समन्तात् ।।

  त्वं वाङ्मयस्त्वञ् चिन्मयः ।
  त्वम् आनन्दमयस्त्वम् ब्रह्ममयः ।
  त्वं सच्चिदानन्दाद्वितीयोऽसि ।
  त्वम् प्रत्यक्षम् ब्रह्मासि ।
  त्वम् ज्ञानमयो विज्ञानमयोऽसि ।।

  सर्वञ् जगदिदन् त्वत्तो जायते ।
  सर्वञ् जगदिदन् त्वत्तस्तिष्ठति ।
  सर्वञ् जगदिदन् त्वयि लयमेष्यति ।
  सर्वञ् जगदिदन् त्वयि प्रत्येति ।
  त्वम् भूमिरापोऽनलोऽनिलो नभः ।
  त्वञ् चत्वारि वाव्पदानि ||

  त्वङ् गुणत्रयातीतः ।
  (त्वम् अवस्थात्रयातीतः ।)
  त्वन् देहत्रयातीतः । त्वङ् कालत्रयातीतः ।
  त्वम् मूलाधारस्थितोऽसि नित्यम् ।
  त्वं शक्तित्रयात्मकः ।
  त्वां योगिनो ध्यायन्ति नित्यम् ।
  त्वम् ब्रह्मा त्वं विष्णुस्त्वम् रुद्रस्त्वम्
  इन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वञ चन्द्रमास्त्वम्
  ब्रह्मभूर्भुवः स्वरोम्

  गणादिम् पूर्वमुच्चार्य
  वर्णादिन् तदनन्तरम् ।
  अनुस्वारः परतरः । अर्धेन्दुलसितम् ।
  तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् ।
  गकारः पूर्वरूपम् । अकारो मध्यमरूपम् ।
  अनुस्वारश्चान्त्यरूपम् ।
  बिन्दुरुत्तररूपम् ।
  नादः सन्धानम् । संहिता सन्धिः ।
  सैषा गणेशविद्या । गणक ऋषिः ।
  निचृद्गायत्री छन्दः । गणपतिर्देवता ।
  ॐ गँ गणपतये नमः ।।

  एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि ।
  तन्नो दन्तिः प्रचोदयात्

  एकदन्तञ् चतुर्हस्तम्,
  पाशमङ्कुशधारिणम् ।
  रदञ् च वरदम् हस्तैर्बिभ्राणम्,
  मूषकध्वजम् ।
  रक्तं लम्बोदरं,
  शूर्पकर्णकम् रक्तवाससम् ।
  रक्तगन्धानुलिप्ताङ्गम्,
  रक्तपुष्पैःसुपूजितम् ।
  भक्तानुकम्पिनन् देवञ्,
  जगत्कारणमच्युतम् ।
  आविर्भूतञ् च सृष्ट्यादौ,
  प्रकृतेः पुरुषात्परम् ।
  एवन् ध्यायति यो नित्यं
  स योगी योगिनां वरः ||

  नमो व्रातपतये, नमो गणपतये,
  नमः प्रमथपतये,
  नमस्ते अस्तु लम्बोदराय एकदन्ताय,
  विघ्ननाशिने शिवसुताय,
  वरदमूर्तये नमः ||

  एतदथर्वशीर्षं योऽधीते ।
  स ब्रह्मभूयाय कल्पते ।
  स सर्वविघ्नैर्न बाध्यते ।
  स सर्वतः सुखमेधते ।
  स पञ्चमहापापात् प्रमुच्यते ।
  सायमधीयानो दिवसकृतम्
  पापन् नाशयति ।
  प्रातरधीयानो रात्रिकृतम्
  पापन् नाशयति ।
  सायम् प्रातः प्रयुञ्जानोऽअपापो भवति ।
  सर्वत्राधीयानोऽपविघ्नो भवति ।
  धर्मार्थकाममोक्षञ् च विन्दति ।
  इदम् अथर्वशीर्षम् अशिष्याय न देयम् ।
  यो यदि मोहाद्दास्यति
  स पापीयान् भवति ।
  सहस्रावर्तनात् ।
  यं यङ् काममधीते
  तन् तमनेन साधयेत् ।।

  अनेन गणपतिमभिषिञ्चति ।
  स वाग्मी भवति ।
  चतुथ्र्यामनश्नन् जपति
  स विद्यावान् भवति ।
  इत्यथर्वणवाक्यम् ।
  ब्रह्माद्यावरणम् विद्यात् ।
  न बिभेति कदाचनेति ।।

  यो दूर्वाङ्कुरैर्यजति ।
  स वैश्रवणोपमो भवति ।
  यो लाजैर्यजति, स यशोवान् भवति ।
  स मेधावान् भवति ।
  यो मोदकसहस्रेण यजति ।
  स वाञ्छितफलमवाप्नोति ।
  यः साज्यसमिद्भिर्यजति
  स सर्वं लभते, स सर्वं लभते ।।

  अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा,
  सूर्यवर्चस्वी भवति ।
  सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ
  वा जप्त्वा, सिद्धमन्त्रो भवति ।
  महाविघ्नात् प्रमुच्यते ।
  महादोषात् प्रमुच्यते ।
  महापापात् प्रमुच्यते ।
  स सर्वविद् भवति, स सर्वविद् भवति ।
  य एवम् वेद ।।

  शान्तिमन्त्र

  ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः ।
  भद्रम् पश्येमाक्षभिर्यजत्राः ।
  स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः
  व्यशेम देवहितं यदायुः ।।

  ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
  स्वस्ति नः पूषा विश्ववेदाः ।
  स्वस्ति नस्ताक्ष्र्योऽअरिष्टनेमिः
  स्वस्ति नो बृहस्पतिर्दधातु ।।
  ॐ शान्तिः शान्तिः शान्तिः ।।