॥ नवार्णविधि ध्यानम्॥

  खड्‌गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
  शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
  नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
  यामस्तौत्स्वपिते हरौ कमलजो हन्‍तुं मधुं कैटभम्॥१॥

  ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
  दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
  शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
  सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥२॥

  ॐ घण्टाशूलहलानि शङ्‌खमुसले चक्रं धनुः सायकं
  हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्।
  गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
  पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥३॥